Sunday, November 18, 2007

रामचरितमानस- सुन्दरकाण्ड मङ्गलाचरण

जय श्री राम

शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं
ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम् ।
रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं
वन्देऽहं करुणाकरं रघुवरं भूपालचूडामणिम् ॥

नान्यास्पृहा रघुपते हृदयेऽस्मदीये
सत्यं वदामि च भवानखिलान्तरात्मा ।
भक्तिं प्रयच्छ रभुपुङ्गवनिर्भरां मे
कामादिदोषरहितं कुरु मानसं च ॥

अतुलितबलधामं हेमशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं
रघुपतिप्रियभक्तं वातजातं नमामि ॥

1 comment:

दिवाकर मणि said...

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचर चमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं
रामे चितलयो सदा भवतु मे भो राम गोपाय माम् ॥