Thursday, December 6, 2007

आरण्यकाः छात्राः कन्दराः प्रति प्रवृत्ताः (गुहान्वेषणम)

जवाहरलाल नेहरू विश्वविद्यालये ५ दिसम्बरे मानसूनसत्रः समाप्तः । अधुना त्रिवर्षपूर्वस्य स्मृतिः मम मनसि जागरति यदा मम अपि अत्र प्रथमः वर्ष आसीत् ।

अहं स्नातकोत्तरकक्षायां पठितुं २००४ क्रिष्टाब्दे अत्र आगच्छम् । मम प्रथम सत्रः (मानसून २००४) यदा समाप्तप्रायः आसीत्, आस्माभिः श्रुतं यत् विश्वविद्यालयेऽस्मिन् कन्दराः सन्ति । कुत्र सन्ति, अस्य पर्याप्ता सूचना नासीत् । ततः किम्? अस्माभिः विनिश्चितं यत् ताः ढुण्ढिष्यामहे (ढुण्ढिधातुः वेदे अन्वेषणार्थे प्रयुक्तः अस्ति) । तासां विषये केवलमिदं श्रुतमासीत् यत् ताः दक्षिणीये वने सन्ति । अनेकैः पृष्टम्, परं कोऽपि एतावत् न प्राप्तः यः कथयेत् यत् अहं तत्र गतः अस्मि, परं किञ्चित् किञ्चित् सूचना क्रमेण प्राप्ता जाता । यदा केवलं एतावद् एवे निश्चितमासीत् यत् कन्दराः सन्ति, एकस्मिन् रात्रौ, प्रायः एकादश वादने, वयं केचिज्जनाः स्व केन्द्रे (विशिष्ट संस्कृत अध्ययन केन्द्रे) संगणकीये परियोजनाकार्ये संलग्ना आस्म, रवीशः, एकः अन्यः अहं च सुरक्षाकर्मिणा प्रकाशनी (टॉर्च) आदाय अनुमानस्यैव आधारेण कन्दराः अन्वेष्टुं एकत्रस्थानतः वने प्रविष्टाः । सार्धं होरापर्यन्तं वयं तत्र अभ्रमन्, "अत्र विशालाः शिलाः सन्ति- अत्र कन्दरा सम्भवति", "अत्र गहने स्थाने सम्भवति" इत्यादीनि अनुमानानि कुर्वन् । चन्द्रिकामयी रात्रिरासीत् कन्दराः न प्राप्ताः परम् आनन्दः तु प्राप्तः । तद्रात्रौ वयं न्यवर्तयाम, अनेन निश्चयेन सह यत्, न अधुना, कदापि तु कन्दराः प्राप्स्यन्ते एव अस्माभिः । ततः निवृत्य, केन्द्रे आगत्य वयं आरण्यकम् अनुभवम् तत्र सहपाठिनः अश्रावयाम ।

अन्यस्मिन् दिने किं अभवत्......... अग्रे कथयिष्यामः........नमस्कारः