Tuesday, July 22, 2008

सहपाठिनां सह प्रथमतया साफल्येन गुहासु सम्मोदनम्

अथ काले गच्छति अहं सहपाठिनां सह कन्दराणाम् अन्वेषणाय कृतनिश्चयः आसम् । अतः पूर्वोक्तस्य दिनस्य सप्ताहं पश्चात् चत्वारः जनाः मध्याह्ने भोजनोपरान्ते गुहासु अन्वेषणं कर्तुं प्रस्थिताः । मया सह राकेशः, नीलमः, कल्पना च आसन् । यत्र अस्माभिः प्रथमा गुहा दृष्टा आसीत्, तत एव वयं प्रारम्भम् अकुर्म । अद्य जनवरीमासस्य सप्तमदिनांकः आसीत् । वयं सर्वे तस्यां गुहायां प्रविश्य आनन्दम् अन्वभवाम । किञ्चिदेव कालं स्थित्वा वयम् अन्याः कन्दराः अन्वेष्टुं प्रस्थिताः । कण्टकाकीर्णानि स्तम्बानि विचालयन्तः मार्गं कुर्वन्तः वयम् अपराः अपराः च गुहाः अपश्याम । अथ क्रमेण प्राचीनः निर्जलः एकः कूपः अपि दृष्टः । तस्य एव समीपे विशालाः विशालाः शिलाः भित्तीः निर्मायन् छदरहितं कक्षमिव स्थानं दर्शयन्त्यः आसन् । तत्र स्थानं सर्वतः उच्चप्रदेशेन आवेष्टितम् आसीत् । वयं भूतलात् अति नते स्थले आस्म । अग्रे गन्तुम् अस्माभिः उपरि गन्तव्यम् आसीत् परं तीक्ष्णप्रवणासु शिलासु आरोहन्तुं दुष्करम् आसीत् । अत्युच्चे तत्र एकः वटवृक्षः तटवर्ती आसीत् । तस्य मूलानि भित्तितः अवतीर्णानि आसन् । तान् एव अवलम्ब्य वयम् वयं चत्वारोऽपि आरुह्य उपरि गताः । ततः अग्रे गत्वा अन्याः अनेकान् गह्वरान् अन्वेषयन् तेषु च मनः आमोदयन् वयं अति स्रस्ता भूत्वा गुहावल्याः अन्तं यावत् विश्वविद्यालयस्य दक्षिणां सीमां प्राप्ताः । ततः पुनः प्रवणासु शिलासु एकेन निम्बवृक्षेण बद्धया टायरशृंखलया आरूह्य विश्वविद्यलयात् बहिः वसन्तकुंजं अगच्छाम । ततः बहिः बहिः भ्रमन्तः वयम् विश्वविद्यालयस्य पश्चिमद्वारात् प्रविश्य स्वेषु स्वेषु छात्रावासेषु गतवन्तः ।